दत्तात्रेयं महात्मानं वरदं भक्तवत्सलम् ।
प्रपन्नार्तिहरं वन्दे स्मर्तृगामी स माऽवतु ॥ १॥
दीनबन्धुं कृपासिन्धुं सर्वकारणकारणम् ।
सर्वरक्षाकरं वन्दे स्मर्तृगामी स माऽवतु ॥ २॥

शरणागतदीनार्तपरित्राणपरायणम् ।
नारायणं विभुं वन्दे स्मर्तृगामी स माऽवतु ॥ ३॥
सर्वानर्थहरं देवं सर्वमङ्गलमङ्गलम् ।
सर्वक्लेशहरं वन्दे स्मर्तृगामी स माऽवतु ॥ ४॥
शोषणं पापपङ्कस्य दीपनं ज्ञानतेजसः ।
भक्ताभीष्टप्रदं वन्दे स्मर्तृगामी स माऽवतु ॥ ५॥
सर्वरोगप्रशमनं सर्वपीडानिवारणम् ।
तापप्रशमनं वन्दे स्मर्तृगामी स माऽवतु ॥ ६॥
ब्रह्मण्यं धर्मतत्त्वज्ञं भक्तकीर्तिविवर्धनम् ।
आपदुद्धरणं वन्दे स्मर्तृगामी स माऽवतु ॥ ७॥
जन्मसंसारबन्धघ्नं स्वरूपानन्ददायकम् ।
निःश्रेयसप्रदं वन्दे स्मर्तृगामी स माऽवतु ॥ ८॥
जयलाभयशःकामदातुर्दत्तस्य यः स्तवम् ।
भोगमोक्षप्रदस्येमं प्रपठेत्स कृती भवेत् ॥ ९॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीदत्तात्रेयस्तोत्रं सम्पूर्णम् ।

Comments
Post a Comment