भज गोविन्दम्: Bhaj Govindam - Adi shankaracharya

भज गोविन्दम् हे आदि शकराचार्यान  चे भजन आज तुमच्या सर्वांसाठी इथे देत आहे. 

भज गोविन्दम्

भज गोविन्दं भज गोविन्दं, 
गोविन्दं भज मूढ़मते ।
संप्राप्ते सन्निहिते काले, 
न हि न हि रक्षति डुकृञ् करणे ॥1॥

मूढ़ जहीहि धनागमतृष्णाम्, 
कुरु सद्बुद्धिमं मनसि वितृष्णाम् ।
यल्लभसे निजकर्मोपात्तम्, 
वित्तं तेन विनोदय चित्तं ॥2॥

नारीस्तनभरनाभीदेशम्, 
दृष्ट्वा मागा मोहावेशम् ।
एतन्मान्सवसादिविकारम्, 
मनसि विचिन्तय वारं वारम् ॥3॥

यावद्वित्तोपार्जनसक्त:, 
तावन्निजपरिवारो रक्तः।
पश्चाज्जीवति जर्जरदेहे, 
वार्तां कोऽपि न पृच्छति गेहे ॥4॥

बालस्तावत् क्रीडासक्तः, 
तरुणस्तावत् तरुणीसक्तः ।
वृद्धस्तावच्चिन्तासक्तः, 
परे ब्रह्मणि कोऽपि न सक्तः ॥7॥

का ते कांता कस्ते पुत्रः,
संसारोऽयमतीव विचित्रः।
कस्य त्वं वा कुत अयातः,
तत्त्वं चिन्तय तदिह भ्रातः॥८॥

सत्संगत्वे निस्संगत्वं,
निस्संगत्वे निर्मोहत्वं।
निर्मोहत्वे निश्चलतत्त्वं
निश्चलतत्त्वे जीवन्मुक्तिः॥९॥

व यसि गते कः कामविकारः,
शुष्के नीरे कः कासारः।
क्षीणे वित्ते कः परिवारः,
ज्ञाते तत्त्वे कः संसारः॥१०॥

मा कुरु धनजनयौवनगर्वं,
हरति निमेषात्कालः सर्वं।
मायामयमिदमखिलम् हित्वा,
ब्रह्मपदम् त्वं प्रविश विदित्वा॥११॥

दिनयामिन्यौ सायं प्रातः,
शिशिरवसन्तौ पुनरायातः।
कालः क्रीडति गच्छत्यायुस्तदपि
न मुन्च्त्याशावायुः॥१२॥

द्वादशमंजरिकाभिरशेषः
कथितो वैयाकरणस्यैषः।
उपदेशोऽभूद्विद्यानिपुणैः, 
श्रीमच्छंकरभगवच्चरणैः॥१२अ॥

Comments