बिल्वाष्टकम् स्तोत्र - Bilwashtakam Stotra

 बिल्वाष्टकम् स्तोत्र 

Shiv Bilwashtakam Stotra 


त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रयायुधम् ।
त्रिजन्मपाप- संहार मेकबिल्वं शिवार्पणम्।।1।।

त्रिशाखैर्बिल्वपत्रैश्च ह्यच्छिद्रै: कोमलै: शुभै: ।
शिवपूजां करिष्यामि ह्येकबिल्वं शिवार्पणम्।।2।।

अखण्ड बिल्व पत्रेण पूजिते नन्दिकेश्वरे ।
शुद्धयन्ति सर्व पापेभ्यो ह्येकबिल्वं शिवार्पणम्।।3।।

शालिग्राम शिलामेकां विप्राणां जातु अर्पयेत्।
सोमयज्ञ-महापुण्य मेकबिल्वं शिवार्पणम्।।4।।

दन्तिकोटि सहस्त्राणि वाजपेय शतानि च ।
कोटिकन्या-महादान मेकबिल्वं शिवार्पणम्।।5।।

लक्ष्म्या: स्तनत उत्पन्नं महादेवस्य च प्रियम्।
बिल्ववृक्षं प्रयच्छामि ह्येकबिल्वं शिवार्पणम्।।6।।

दर्शनं बिल्व वृक्षस्य स्पर्शनं पाप नाशनम्।
अघोरपाप संहार मेकबिल्वं शिवार्पणम्।।7।।

काशीक्षेत्र निवासं च कालभैरव दर्शनम्।
प्रयाग माधवं दृष्ट्वा एक बिल्वं शिवार्पणम् ।।8।।

मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे ।
अग्रत: शिवरूपाय ह्येकबिल्वं शिवार्पणम्।।9।।

बिल्वाष्टक मिदं पुण्यं य: पठेच्छिव सन्निधौ।
सर्वपाप विनिर्मुक्त: शिवलोक मवाप्नुयात्।।10।। इति बिल्वाष्टकं सम्पूर्णम्।।

Comments