नृसिंह कवचम वक्ष्येऽ प्रह्लादनोदितं पुरा ।
सर्वरक्षाकरं पुण्यं सर्वोपद्रवनाशनं ॥1॥
सर्वसंपत्करं चैव स्वर्गमोक्षप्रदायकम ।
ध्यात्वा नृसिंहं देवेशं हेमसिंहासनस्थित ॥2॥
विवृतास्यं त्रिनयनं शरदिंदुसमप्रभं ।
लक्ष्म्यालिंगितवामांगम विभूतिभिरुपाश्रितं ॥3॥
चतुर्भुजं कोमलांगम स्वर्णकुण्डलशोभितं ।
ऊरोजशोभितोरस्कं रत्नकेयूरमुद्रितं ॥4॥
तप्तकांचनसंकाशं पीतनिर्मलवासनं ।
इंद्रादिसुरमौलिस्थस्फुरन्माणिक्यदीप्तिभि: ॥5॥
विराजितपदद्वंद्वं शंखचक्रादिहेतिभि:।
गरुत्मता च विनयात स्तूयमानं मुदान्वितं ॥6॥
स्वहृतकमलसंवासम कृत्वा तु कवचम पठेत
नृसिंहो मे शिर: पातु लोकरक्षात्मसंभव: ॥7॥
सर्वगोऽपि स्तंभवास: फालं मे रक्षतु ध्वनन ।
नरसिंहो मे दृशौ पातु सोमसूर्याग्निलोचन: ॥8॥
शृती मे पातु नरहरिर्मुनिवर्यस्तुतिप्रिय: ।
नासां मे सिंहनासास्तु मुखं लक्ष्मिमुखप्रिय: ॥9॥
सर्वविद्याधिप: पातु नृसिंहो रसनां मम ।
वक्त्रं पात्विंदुवदन: सदा प्रह्लादवंदित: ॥10॥
नृसिंह: पातु मे कण्ठं स्कंधौ भूभरणांतकृत ।
दिव्यास्त्रशोभितभुजो नृसिंह: पातु मे भुजौ ॥11॥
करौ मे देववरदो नृसिंह: पातु सर्वत: ।
हृदयं योगिसाध्यश्च निवासं पातु मे हरि: ॥12॥
मध्यं पातु हिरण्याक्षवक्ष:कुक्षिविदारण: ।
नाभिं मे पातु नृहरि: स्वनाभिब्रह्मसंस्तुत: ॥13॥
ब्रह्माण्डकोटय: कट्यां यस्यासौ पातु मे कटिं ।
गुह्यं मे पातु गुह्यानां मंत्राणां गुह्यरुपधृत ॥14॥
ऊरु मनोभव: पातु जानुनी नररूपधृत ।
जंघे पातु धराभारहर्ता योऽसौ नृकेसरी ॥15॥
सुरराज्यप्रद: पातु पादौ मे नृहरीश्वर: ।
सहस्रशीर्षा पुरुष: पातु मे सर्वशस्तनुं ॥16॥
महोग्र: पूर्वत: पातु महावीराग्रजोऽग्नित:।
महाविष्णुर्दक्षिणे तु महाज्वालस्तु निर्रुतौ ॥17॥
पश्चिमे पातु सर्वेशो दिशि मे सर्वतोमुख: ।
नृसिंह: पातु वायव्यां सौम्यां भूषणविग्रह: ॥18॥
ईशान्यां पातु भद्रो मे सर्वमंगलदायक: ।
संसारभयद: पातु मृत्यूर्मृत्युर्नृकेसरी
॥19॥
इदं नृसिंहकवचं प्रह्लादमुखमंडितं ।
भक्तिमान्य: पठेन्नित्यं सर्वपापै: प्रमुच्यते ॥20॥
पुत्रवान् धनवान् लोके दीर्घायुरुपजायते । यं यं कामयते कामं तं तं प्राप्नोत्यसंशयम् ॥ 21॥
सर्वत्र जयमाप्नोति सर्वत्र विजयी भवेत् । भूम्यन्तरीक्षदिव्यानां ग्रहाणां विनिवारणम् ॥ 22॥
वृश्चिकोरगसम्भूत विषापहरणं परम् । ब्रह्मराक्षसयक्षाणां दूरोत्सारणकारणम् ॥ 23॥
भूर्जे वा तालपात्रे वा कवचं लिखितं शुभम् । करमूले धृतं येन सिध्येयुः कर्मसिद्धयः ॥ 24॥
देवासुरमनुष्येषु स्वं स्वमेव जयं लभेत् । एकसन्ध्यं त्रिसन्ध्यं वा यः पठेन्नियतो नरः ॥ 25॥
सर्वमङ्गलमाङ्गल्यं भुक्तिं मुक्तिं च विन्दति । द्वात्रिंशतिसहस्राणि पठेत् शुद्धात्मनां नृणाम् ॥ 26॥
कवचस्यास्य मन्त्रस्य मन्त्रसिद्धिः प्रजायते । अनेन मन्त्रराजेन कृत्वा भस्माभिमन्त्रणम् ॥ 27॥
तिलकं विन्यसेद्यस्तु तस्य ग्रहभयं हरेत् । त्रिवारं जपमानस्तु दत्तं वार्यभिमन्त्र्य च ॥ 28॥
प्राशयेद्यो नरो मन्त्रं नृसिंहध्यानमाचरेत् । तस्य रोगाः प्रणश्यन्ति ये च स्युः कुक्षिसम्भवाः॥ 29॥
किमत्र बहुनोक्तेन नृसिंहसदृशो भवेत् । मनसा चिन्तितं यत्तु स तच्चाप्नोत्यसंशयम् ॥ 30॥
गर्जन्तं गर्जयन्तं निजभुजपटलं स्फोटयन्तं हठन्तं रूप्यन्तं तापयन्तं दिवि भुवि दितिजं क्षेपयन्तं क्षिपन्तम् । क्रन्दन्तं रोषयन्तं दिशि दिशि सततं संहरन्तं भरन्तं | वीक्षन्तं घूर्णयन्तं शरनिकरशतैर्दिव्यसिंहं नमामि ॥ 31॥
॥ इति श्रीब्रह्माण्डपुराणे प्रह्लादोक्तं श्रीनृसिंहकवचं सम्पूर्णम् ॥

Comments
Post a Comment