कराभ्यां परशुं चापं दधानं रेनुकात्मजम ||
जामदग्न्यं भजे रामं भार्गवं क्षत्रियान्तकम || १ ||
जामदग्न्यं भजे रामं भार्गवं क्षत्रियान्तकम || १ ||
नमामि भार्गवं रामं रेणुकाचित्तनंदनम || मो
चिताम्बार्तिमुत्पातनाशनं क्षत्रनाशनं || २ ||
भयार्तस्वजनत्राणतत्परं धर्मतत्परम ||
गतवर्गप्रियं शूरं जमदग्निसुतं मतम || ३ ||
वशीकृतमहादेवं दृप्तभूपकुलान्तकम ||
तेजस्विनं कार्तवीर्यनाशनं भवनाशनम || ४ ||
परशुं दक्षिणे हस्ते वामे च दधतं धनुः ||
रम्यं भृगुकुलोत्तंसं घनश्यामं मनोहरम || ५ ||
शुद्धं बुद्धं महाप्रज्ञामंडितं रणपण्डितं ||
रामं श्रीदत्तकरुणाभाजनं विप्ररंजनं || ६ ||
मार्गणाशोषिताब्ध्यंशं पावनं चिरजीवनं ||
य एतानि जपेद्रामनामानि स कृती भवेत || ७ ||
इति श्री प.प. वासुदेवानंदसरस्वती विरचितं श्रीपरशुरामस्तोत्रं संपूर्णम ||
जय जय श्री भगवान परशुराम
Comments
Post a Comment