श्री राम हृदय स्तोत्र 


श्रीराम हृदययः पृथ्वीभरवारणाय दिविजैः संप्रार्थितश्र्चिन्मयः ।
संजातः पृथिवीतले रविकुले मायामनुष्योऽव्ययः ।
निश्र्चक्रं हतराक्षसः पुनरगाद् ब्रह्मत्वमाद्यं स्थिरां ।
कीर्तिं पापहरां विधाय जगतां तं जानकीशं भजे ॥ १ ॥
विश्र्वोद्भवस्थितिलयादिषु हेतुमेकं ।
मायाश्रयं विगतमायमचिन्त्यमूर्तिम् ।
आनन्दसान्द्रममलं निजबोधरुपं ।
सीतापतिं विदिततत्तमहं नमामि ॥ २ ॥

पठन्ति ये नित्यमनन्यचेतसः ।
शृण्वन्ति चाध्यात्मिकसंज्ञि तं शुभम् ।
रामायणं सर्वपुराणसंमतं ।
निर्घूतपापा हरिमेव यान्ति ते ॥ ३ ॥
 
अध्यात्मरामायणमेव नित्यं ।
पठेद्यदीच्छेद्भवबन्धमुक्तिम् ।
गवां सहस्रायुतकोटिदानात् ।
फलं लभेद्यः शृणुयात्सनि्यम् ॥ ४ ॥

पुरारिगिरिसंभूता श्रीरामार्णवसंगता ।
अध्यात्मरामगंगेयं पुनाति भुवनत्रयम् ॥ ५ ॥

कैलासाग्रे कदाचिद्रविशतविमले, मन्दिरे रत्नपीठे ।
संविष्टं ध्याननिष्ठं त्रिनयनमभयं, सेवितं सिद्धसङ्गै ॥
देवी वामाङ्कसंस्था गिरिवरतनया, पार्वती भक्तिनम्रा ।
प्राहेदं देवमीशं सकलमलहरं, वाक्यमानन्दकन्दम् ॥ ६ ॥

पार्वत्युवाच
नमोऽस्तु ते देव जगन्निवास,
सर्वात्मद्दक् त्वं परमेश्र्वरोऽसि ।
पृच्छामि तत्त्वं पुरुषोत्तमस्य,
सनातनं त्वं च सनातनोऽसि ॥ ७ ॥
 
गोप्यं यदत्यन्तमनन्यवाच्यं,
वदन्ति भक्तेषु महानुभावाः ।
तदाप्यहोऽहं तव देव भक्ता,
प्रियोऽसि मे त्वं वद यत्तु पृष्टम् ॥ ८ ॥

ज्ञानं सविज्ञानमथानुभक्ति,
वैराग्ययुक्तं च मितं विभास्वत् ।
जानाम्यंहं योषिदपि त्वदुक्तं,
यथा तथा ब्रूहि तरन्ति येन ॥ ९ ॥

पृच्छामि चान्यच्च परं रहस्यं,
तदेव चाग्रे वद वारिजाक्ष ।
श्रीरामचन्द्रेऽखिललोकसारे,
भक्तिर्दृढा नौर्भवति प्रसिद्धा ॥ १० ॥

भक्तिः प्रसिद्धा भवमोक्षणाय,
नान्यत्ततः साधनमस्ति किञ्चित् ।
तथापि हृत्संशयबन्धनं मे,
विभेत्तुमर्हस्यमलोक्तिभिस्त्वम् ॥ ११ ॥

वदन्ति रामं परमेकमाद्यं,
निरस्तमायागुणसंप्रवाहम् ।
भजन्ति चाहर्निशमप्रमत्ताः
परं पदं यान्ति तथैव सिद्धाः ॥ १२ ॥

वदन्ति केचित्परमोऽपि रामः,
स्वाविद्यया संवृतमात्मसंज्ञम् ।
जानाति नात्मानमतः परेण,
संबोधितो वेद परात्मतत्त्वम् ॥ १३ ॥

यदि स्म जानाति कुतो विलापः,
सीताकृतेऽनेन कृतः परेण ।
जानाति नैवं यदि केन सेव्यः,
समो हि सर्वैरपि जीवजातैः ॥ १४ ॥

अत्रोत्तरं किं विदितं भवद्भिस्तद् ब्रूत
मे संशयभेदि वाक्यम् ॥ १५ ॥

श्रीमहादेव उवाच
धन्याऽसि भक्तासि परात्मनस्त्वं,
यज्ज्ञातुमिच्छा तव रामतत्त्वम्
पुरा न केनाप्यभिचोदितोऽहं,
वक्तुं रहस्यं परमं निगूढम् ॥ १६ ॥

त्वयाऽद्य भक्त्या परिनोदितोऽहं,
वक्ष्ये नमस्कृत्य रघुत्तमं ते ।
रामः परात्मा प्रकृतेरनादि-
रानन्द एकः पुरुषोत्तमो हि ॥ १७ ॥

स्वमायया कृत्स्नमिदं हि सृष्ट्वा,
नभोवदन्तर्बहिरास्थितो यः ।
सर्वान्तरस्थोऽपि निगूढ आत्मा,
स्वमायया सृष्टमिदं विचष्टे ॥ १८ ॥

जगन्ति नित्यं परितो भ्रमन्ति,
यत्सन्निधौ चुम्बकलोहवद्धि ।
एतन्न जानन्ति विमूढचित्ताः,
स्वाविद्यया संवृतमानसा ये ॥ १९ ॥

स्वाज्ञानमप्यात्मनि शुद्धबुद्धे,
स्वारोपयन्तीह निरस्तमाये ।
संसारमेवानुसरन्ति ते वै,
पुत्रादिसक्ताः पुरुकर्मयुक्ताः ॥ २० ॥

जानन्ति नैवं हृदये स्थितं वै,
चामीकरं कण्ठगतं यथाऽज्ञाः ॥
यथाऽप्रकाशो न तु विद्यते रवौ,
ज्योतिः स्वभावे परमेश्र्वरे तथा।
विशुद्धविज्ञानघने रघूत्तमेऽ
विद्या कथं स्यात्परः परात्मनि ॥ २१ ॥

यथा हि चाक्ष्णा भ्रमता ग्रहादिकं,
विनष्टदृष्टेर्भ्रमतीव दृश्यते ।
तथैव देहेन्द्रियकर्तुरात्मनः
कृत परेऽध्यस्य जनो विमुह्यति ॥ २२ ॥

नाहो न रात्रिः सवितुर्यथा भवेत्,
प्रकाशरुपाऽव्यभिचारतः क्वचित् ।
ज्ञानं तथाऽज्ञानमिदं द्वयं हरौ,
रामे कथं स्थास्यति शुद्धचिद्धने ॥ २३ ॥

तस्मात्परानन्दमये रघूत्तमे,
विज्ञानरुपे हि न विद्यते तमः।
अज्ञानसाक्षिण्यरविन्दलोचने
मायाश्रयत्वान्न हि मोहकारणम् ॥ २४ ॥

अत्र ते कथयिष्यामि रहस्यमपि दुर्लभम् ।
सीताराममरुत्सूनुसंवादं मोक्षसाधनम् ॥ २५ ॥

पुरा रामायणे रामो रावणं देवकण्टकम् ।
हत्वा रणे रणश्र्लाघी सुपुत्रबलवाहनम् ॥ २६ ॥

सीतया सह सुग्रीवलक्ष्मणाभ्यां समन्वितः ।
अयोध्यामगमद्रामो हनूमत्प्रमुखैर्वृतः ॥ २७ ॥

अभिषिक्तः परिवृत्तो वसिष्ठाद्यैर्महात्मभिः ।
सिंहासने समासीनः कोटिसूर्यसमप्रभः ॥ २८ ॥

दृष्ट्वा तदा हनूमन्तं प्राज्जलिं पुरतः स्थितम् ।
कृतकार्यं निराकाङ्क्षं ज्ञानस्य ज्ञानापेक्षं महामतिम् ॥ २९॥

रामः सीतामुवाचेदं ब्रहि तत्त्वं हनूमते ।
निष्कल्मषोऽयं ज्ञानस्य पात्रं नौ नित्यभक्तिमान् ॥ ३० ॥

तथेति जानकी प्राह तत्त्वं रामस्य निश्र्चितम् ।
हनुमते प्रपन्नाय सीता लोकविमोहिनी ॥ ३१ ॥

सीतोवाच
रामं विद्धि परं ब्रह्म सच्चिदानन्दमद्वयम् ।
सर्वोपाधिविनिर्मुक्तं सत्तामात्रमगोचरम् ॥ ३२ ॥

आनन्दं निर्मलं शान्तं निर्विकारं निरंजनम् ।
सर्वव्यापिनमात्मानं स्वप्रकाशमकल्मषम् ॥ ३३ ॥

मां विद्धि मूलप्रकृतिं सर्गस्थित्यन्तकारिणीम् ।
तस्य संनिधिमात्रेण सृजामीदमतन्द्रिता ॥ ३४ ॥

तत्सान्निध्यान्मया सृष्टं तस्मिन्नारोप्यतेऽबुधैः ।
अयोध्यानगरे जन्म रघुवंशेऽतिनिर्मले ॥ ३५ ॥

विश्र्वामित्रसहायत्वं मखसंरश्रणं ततः ।
अहल्याशापशमनं चापभङ्गो महेशितुः ॥ ३६ ॥

मत्पाणिग्रहणं पश्र्चाद्भार्गवस्य मदक्षयः ।
अयोध्यानगरे वासो मया द्वादशवार्षिकः ॥ ३७ ॥

दण्डकारण्यगमनं विराधवध एव च ।
मायामारीचमरणं मायासीताहृतिस्तथा ॥ ३८ ॥

जटायुषो मोक्षलाभः कबन्धस्य तथैव च ।
शबर्याः पूजनं पश्र्चात्सुग्रीवेण समागमः ॥ ३९ ॥

वालिनश्र्च वधः पश्र्चात्सीतान्वेषणमेव च ।
सेतुबन्धश्र्च जलघौ लंकायाश्र्च निरोधनम् ॥ ४० ॥

रावणस्य वधो युद्धे सपुत्रस्य-दुरात्मनः ।
बिभिषणे राज्यदानं पुष्पकेण मया सह ॥ ४१ ॥

अयोध्यागमनं पश्र्चाद्राज्ये रामाभिषेचनम् ।
एवमादीनि कर्माणि मयैवाचरितान्यपि ।
आरोपयन्ति रामेऽस्मिन्निरविकारे खिलात्मनि ॥ ४२ ॥

रामो न गच्छति न तिष्ठति नानुशोच ।
त्याकाङ्क्षते त्यजति नो न करोति किश्र्चित् ।
आनन्दमूर्तिरचलः परिणामहीनो ।
मायागुणाननुगतो हि तथा विभाति ॥ ४३॥

श्रीमहादेव - उवाच
ततो रामः स्वयं प्राह हनूमन्तमुपस्थितम् ।
शृणु तत्त्वं प्रवक्ष्यामि ह्यात्मानात्मपरात्मनाम् ॥ ४४ ॥

श्री राम उवाच
आकाशस्य यथा भेदस्त्रिविधो दृश्यते महान् ।
जलाशये महाकाशस्तदवच्छिन्न एव हि ।
प्रतिबिम्बाख्यमपरं दृश्यते त्रिविधं नभः ॥ ४५ ॥

बुद्ध्यवच्छिन्नचैतन्यमेकं पूर्णमथापरम् ।
आभासस्वत्परं बिम्बभूतमेवं त्रिधा चितिः ॥ ४६ ॥
 
साभासबुद्धेः कर्तृत्वमविच्छिन्नेऽविकारिणी ।
साक्षिण्यारोप्यते भ्रान्त्या जीवत्वं च तथाऽबुधेः ॥ ४७ ॥

आभासस्तु मृषाबुद्धिरविद्याकार्यमुच्यते ।
अविच्छिन्नं तु तद्ब्रह्म विच्छेदस्तु विकल्पतः ॥ ४८ ॥

अवच्छिन्नस्य पूर्णेन एकत्वं प्रतिपाद्यते ।
तत्त्वमस्यादिवाक्यैश्र्च साभासस्याहमस्तथा ॥ ४९ ॥

ऐक्यज्ञानं यदोत्पन्नं महावाक्येन चात्मनोः ।
तदाऽविद्या स्वकार्यैश्र्च नश्यत्येव न संशयः ॥ ५० ॥

एतद्विज्ञाय मद्भक्तो मद्भावायोपपद्यते ।
मद्भक्तिविमुखानां हि शास्त्रगर्तेषु मुह्यताम् ।
न ज्ञानं न च मोक्षः स्यात्तेषां जन्मशतैरपि ॥ ५१ ॥

इदं रहस्यं हृदयं ममात्मनो,
मयैव साक्षात्कथितं तवानघ ।
मद्भक्तिहीनाय शठाय न त्वया,
दातव्यमैन्द्रादपि राज्यतोऽधिकम् ॥ ५२ ॥

श्रीमहादेव उवाच
एतत्तेऽभिहितं देवि श्रीरामहृदयं मया ।
अतिगुह्यतमं हृद्यं पवित्रं पापशोधनम् ॥ ५३ ॥

साक्षाद्रामेण कथितं सर्ववेदान्तसंग्रहम् ।
यः पठेत्सततं भक्त्या स मुक्तो नात्र संशयः ॥ ५४ ॥

ब्रह्महत्यादिपापानि बहुजन्मार्जितान्यपि ।
नश्यन्त्येव न सन्देहो रामस्य वचनं यथा ॥ ५५ ॥

योऽतिभ्रष्टोऽतिपापी परधनपरेदारेषु नित्याद्यतो वा
स्तेयी ब्रह्मघ्नमातापितृवधनिरतो योगिवृन्दापकारी ।
यः सम्पूज्याभिरामं पठति च हृदयं रामचन्द्रस्य भक्त्या
योगीन्द्रैरप्यलभ्यं पदमिह लभते सर्वदेवैः स पूज्यम् ॥ ५६ ॥

॥ इति श्रीमदध्यात्मरामायणे उमामहेश्र्वरसंवादे बालकाण्डे

श्रीरामहृदयं नाम प्रथमः सर्गः ॥


Comments